श्रीआंजनेय द्वादशनामस्तोत्रम् ॥

Swami Ji Maharaj
By -
0





श्रीआंजनेय द्वादशनामस्तोत्रम् ॥ Shri Anjaneya Dvadashanama Stotram.

हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥

उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥

द्वादशैतानि नामानि कपींद्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥

Post a Comment

0 Comments

Post a Comment (0)