Header Ads Widget

एकदन्तशरणागतिस्तोत्रम् ॥

एकदन्तशरणागतिस्तोत्रम् ॥


श्रीगणेशाय नमः ।
देवर्षय ऊचुः ।
सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।
अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥

अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥

समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् ।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥

स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् ।
स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ४॥

त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् ।
तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ५॥

स्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् ।
भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ६॥

ततस्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै ।
समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ७॥

तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् ।
अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ८॥

ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् ।
सुसात्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरण व्रजामः ॥ ९॥

तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव ।
सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजामः ॥ १०॥

त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् ।
विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ ११॥

तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन ।
बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १२॥

सदेव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १३॥

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे  प्रकाशरूपाणि विभान्ति खे वै ॥

भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजामः ॥ १४॥

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।
त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १५॥

यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः ।
स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः॥ १६॥

यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १७॥

यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः ।
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ १८॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थः ।
यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ १९॥

यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजामः ॥ २०॥

सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवनेन स्तौति ।
अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २१॥

गृत्समद उवाच ।
एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ॥

तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २२॥

स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ॥

एकदन्तो महाभागो देवर्षीन् भक्तवत्सलः ॥ २३॥

एकदन्त उवाच ।
स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः किल ।
वरदं भो वृणुत वो दास्यामि मनसीप्सितम् ॥ २४॥

भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रदं च तत् ।
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २५॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २६ ।
गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ।
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २७॥

मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
पठतां श्रृण्वतां नॄणां भवेच्च बन्धहीनताम् ॥ २८॥

एकविंशतिवारं यः श्लोकानेवैकविंशतीन् ।
पठेच्च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिः ॥ २९॥

न तस्य दुर्लभं किञ्चित्रिषु लोकेषु वै भवेत् ।
असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३०॥

नित्यं यः पठति स्तोत्रं ब्रह्मभूतः स वै नरः ।
तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३१॥

इति श्रीमुद्गलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् ।

Post a Comment

0 Comments

Durga Mata

बालाजी ज्योतिष केन्द्र

आपकी कुण्डली बनवानी हो या बनी हुई हो उसे दिखाकर सलाह लेनी हो अथवा फ़्लैट, बंगला या फैक्ट्री में वास्तु विजिटिंग करवानी हो तो सम्पर्क करें.
?max-results=10">More